Shivmanas Pooja || शिवमानसपूजा ||
Shivmanas Pooja || शिवमानसपूजा ||
|| शिवमानसपूजा ||
श्रीगणेशाय नमः
रत्नै: कल्पितमासनं हिमजलैः स्नानं च दिव्यांबरं नानारत्नविभूषितं मृगमदामोदांकितं चं दनम् ।
जातीचंपक बिल्वपत्ररचितं पुष्पं च धूपं तथा दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥ १ ॥
सौवर्णे नवरत्नखंडरचिते पात्रे घृतं पायसं भक्ष्यं पंचविधं पयोदधियुतं रंभाफलं पानकम् ।
शाकानामयुतं जलं रुचिकरं कर्पूर खंडोज्ज्वलं तांबूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥ २ ॥
छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं वीणाभेरिमृदंगकाहलकलागीतं च नृत्यं तथा ।
साष्टांग प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मया संकल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥ ३ ॥
आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः ।
सं चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो यद्यत्कर्म करोमि तत्तदखिलं शंभो तवाराधनम् ॥ ४ ॥
करचरण कृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वाSपराधम् ।
विहितमविहितं वा सर्वमेतत्क्षमस्व जय जय करुणाब्धे श्रीमहादेव शंभो ॥ ५ ॥
|| इति श्रीमच्छंकरा चार्यविरचितं शिवमानसपूजा समाप्ता ॥
- गणेश चतुर्थी 2026: स्थापना मुहूर्त और पूजा विधि
- जन्माष्टमी 2026: 4 सितंबर को निशिता काल मुहूर्त और पूजा विधि
- रक्षाबंधन 2026: 28 अगस्त को शुभ मुहूर्त, चंद्र ग्रहण का असर और पूजा विधि
- राशि अनुसार रत्न: जानें आपकी राशि के लिए कौन सा रत्न है भाग्यशाली और उसके फायदे!
- Sawan 2026 Start & End Date in Hindi: Shravan Somwar Vrat List Aur Durlabh Upay