Shivmanas Pooja || शिवमानसपूजा ||

Shivmanas Pooja || शिवमानसपूजा ||

Shivmanas Pooja || शिवमानसपूजा ||

|| शिवमानसपूजा ||

श्रीगणेशाय नमः

रत्नै: कल्पितमासनं हिमजलैः स्नानं च दिव्यांबरं नानारत्नविभूषितं मृगमदामोदांकितं चं दनम् ।

जातीचंपक बिल्वपत्ररचितं पुष्पं च धूपं तथा दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥ १ ॥

सौवर्णे नवरत्नखंडरचिते पात्रे घृतं पायसं भक्ष्यं पंचविधं पयोदधियुतं रंभाफलं पानकम् ।

शाकानामयुतं जलं रुचिकरं कर्पूर खंडोज्ज्वलं तांबूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥ २ ॥

छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं वीणाभेरिमृदंगकाहलकलागीतं च नृत्यं तथा ।

साष्टांग प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मया संकल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥ ३ ॥

आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः ।

सं चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो यद्यत्कर्म करोमि तत्तदखिलं शंभो तवाराधनम् ॥ ४ ॥

करचरण कृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वाSपराधम् ।

विहितमविहितं वा सर्वमेतत्क्षमस्व जय जय करुणाब्धे श्रीमहादेव शंभो ॥ ५ ॥

|| इति श्रीमच्छंकरा चार्यविरचितं शिवमानसपूजा समाप्ता ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *