Navgrah stotra

Navgrah stotra

Navgrah stotra

॥ नवग्रहपीडाहरस्तोत्रम्॥

हाणामादिरादित्यो लोकरत्तमकारकः। विषमस्थानसंभूतां पीडां हरतु मे रविः।।१।।

रोहिणीशः सुधामूर्तिः सुधागात्रः सुधाशनः। विषमस्थानसंभूतां पीडां हरतु मे विधुः।।२।।

प्रमिपत्रो महातेजा जगतां भयकृत् सदा। वष्टिकद्वृष्टिहर्ता च पीडां हरतु मे कुजः।।३।।

उत्पातरूपो जगतां चन्द्रपुत्रो महाद्युतिः। सूर्यप्रियकरो विद्वान् पीडां हरतु मे बुधः।।४।।

देवमन्त्री विशालाक्षः सदा लोकहिते रतः। अनेकशिष्यसंपूर्णः पीडां हरतु मे गुरुः।।५।।

दैत्यमन्त्री गुरुस्तेषां प्राणदश्च महामतिः। प्रभुस्ताराग्रहाणां च पीडां हरतु मे भृगुः ।।६।।

सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः। मन्दचारः प्रसन्नात्मा पीडां हरतु मे शनिः।।७।।

महाशिरा महावक्रो दीर्घदंष्ट्रो महाबलः। अतनुश्चोर्ध्वकेशश्च पीडां हरतु मे शिखी ।।८।।

अनेकरूपवर्णैश्च शतशोऽथ सहस्रशः। उत्पातरूपो जगतां पीडां हरतु मे तमः।।९।। ॥

इति ब्रह्माण्डपुराणोक्तं नवग्रहपीडाहरस्तोत्रं संपूर्णम्।।

॥ नवग्रहपीडाहरस्तोत्रम्॥

Navgrah stotra

Navgrah Navgrah stotra

Navgrah stotra

Similar Posts

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.