दृष्ट लागणे म्हणजे काय?
दृष्ट लागणे म्हणजे काय?

Mohini Stotram श्रीकृष्णस्तोत्रं मोहिनीरचितम्

astrologer

Mohini Stotram श्रीकृष्णस्तोत्रं मोहिनीरचितम्

Two people engaging in a tarot card reading session with colorful cards and spiritual symbols.

श्रीकृष्णस्तोत्रं मोहिनीरचितम् श्री गणेशाय नमः । मोहिन्युवाच । सर्वेन्द्रियाणां प्रवरं विष्णोरंशं च मानसम् । तदेव कर्मणां बीजं तदुद्भव नमोऽस्तु ते ॥ १॥ स्वयमात्मा हि भगवान् ज्ञानरूपो महेश्वरः । नमो ब्रह्मन् जगत्स्रष्टस्तदुद्भव नमोऽस्तु ते ॥ २॥ सर्वाजित जगज्जेतर्जीवजीव मनोहर । रतिबीज रतिस्वामिन् रतिप्रिय नमोऽस्तु ते ॥ ३॥ शश्वद्योषिदधिष्ठान योषित्प्राणाधिकप्रिय । योषिद्वाहन योषास्त्र योषिद्बन्धो नमोऽस्तु ते ॥ ४॥ पतिसाध्यकराशेषरूपाधार गुणाश्रय । सुगन्धिवातसचिव मधुमित्र नमोऽस्तु ते ॥ ५॥ शश्वद्योनिकृताधार स्त्रीसन्दर्शनवर्धन । विदग्धानां विरहिणां प्राणान्तक नमोऽस्तु ते ॥ ६॥ अकृपा येषु तेऽनर्थं तेषां ज्ञानं विनाशनम् । अनूहरूपभक्तेषु कृपासिन्धो नमोऽस्तु ते ॥ ७॥ तपस्विनां च तपसां विघ्नबीजाय लीलया । मनः सकामं मुक्तानां कर्तुं शक्तं नमोऽस्तु ते ॥ ८॥ तपःसाध्यस्तथाऽऽराध्यः सदैवं पाञ्चभौतिकः । पञ्चेन्द्रियकृताधार पञ्चबाण नमोऽस्तु ते ॥ ९॥ मोहिनीत्येवमुक्त्वा तु मनसा सा विधेः पुरः । विरराम नम्रवक्त्रा बभूव ध्यानतत्परा ॥ १०॥ उक्तं माध्यन्दिने कान्ते स्तोत्रमेतन्मनोहरम् । पुरा दुर्वाससा दत्तं मोहिन्यै गन्धमादने ॥ ११॥ स्तोत्रमेतन्महापुण्यं कामी भक्त्या यदा पठेत् । अभीष्टं लभते नूनं निष्कलङ्को भवेद् ध्रुवम् ॥ १२॥ चेष्टां न कुरुते कामः कदाचिदपि तं प्रियम् । भवेदरोगी श्रीयुक्तः कामदेवसमप्रभः । वनितां लभते साध्वीं पत्नीं त्रैलोक्यमोहिनीम् ॥ १३॥ ॥ इति श्रीमोहिनीकृतं कृष्णस्तोत्रं समाप्तम् ॥


Discover more from

Subscribe to get the latest posts sent to your email.

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.