ketu stotra

श्री केतु स्तोत्रम्
विनियोग=अस्यश्रीकेतुपश्चविंशतिनामस्तोत्रस्य मधुपछन्द: ऋषि: गायत्रीछन्दोः केतुर्देवता केतुप्रीत्यर्थे पाठे विनियोगः ।
केतुः कालः कलयिता धूम्रकेतुविवर्णकः । लोककेतु महाकेतुः सर्वकेतुर्भयप्रदः ॥
रौद्रो रुद्रप्रियो रुदः क्रूरकर्मा सुगन्धधृक् । पलाश – धूम – संकाशश्चित्र यज्ञोपवीतधृकः ॥
तारागणविमर्दी जैमिनेयो ग्रहाधिपः । च पंचविंशति नामानि केतोर्यः सततं पठेत् ॥
तस्य नश्यन्ति बाधाश्च सर्वाः केतुप्रसीदतः । धनधान्यपशूनां च भवेद्वृद्धिर्न संशयः ॥
इति श्री केतु स्तोत्रम् सम्पूर्णम् ॥

